tag:blogger.com,1999:blog-6936223.post2951405197823960021..comments2023-09-10T01:11:02.710-07:00Comments on Random ramblings: संस्कृते आधुनिक-संवहनम् ।nIlagrIvahttp://www.blogger.com/profile/04778523144960984421noreply@blogger.comBlogger1125tag:blogger.com,1999:blog-6936223.post-87867437237129225292007-03-14T04:04:00.000-07:002007-03-14T04:04:00.000-07:00उत्तमं लेखनम् लिखितं भवता । संस्कृतभाषा प्राप्तजना...उत्तमं लेखनम् लिखितं भवता ।

संस्कृतभाषा प्राप्तजनादरापि कथं इदानीं लोकभाषा नास्ति? संस्कृतभारती-सम्पर्कानन्तरं ज्ञातं मया यत् क्लिष्टता तस्य कारणं नास्ति इति । अतीव खेदकरम् यत् अन्धानां "बुद्धिजीवानां" दुरुद्देशैः ह्रियते अस्माकं संस्कृतिरिति ।

कथमपि भवतु नाम, संस्कृतभारत्याः कार्यकौशलं श्लाघनीयमस्ति । संस्कृतभारत्या सह मम सम्पर्कः नवमकक्ष्यायामभवत् । तदा शालायां "रामः रामौ रामाः" एव पठन्ती आसम् । द्वयोः सहयोगेन संस्कृतसम्भाषणशक्तिः, लेखनशक्तिश्च अभ्यवर्धतम् । अतः मम चिंतनं त्वस्ति यत् संस्कृतसंभाषणम् शिक्षितुं प्रौढशला-समयः एव सूक्तः इति, यतः तदा व्याकरणबॊधनमपि भवतीति !

व्यास-वाल्मीकि-कविकुलगुर्वादीनां भाषा अस्मदीयापि इति विचिंत्य मनः हर्षमनुभवति ।parijatahttps://www.blogger.com/profile/17766691048085485541noreply@blogger.com