संस्कृतभारती "सम्भाषण-सन्दॆशः" इति नामाङ्कितां पत्रिकां चालयति । तस्याः जनवरी-सञ्चिकां ह्यः प्राप्तवान् । सञ्चिकायां हरीश-तन्नॆति कश्चित् गणक-संस्कृतस्योपरि लॆखनमलिखत्। तत्र संस्कृतॆन उट्टङ्कणं कष्टमित्यासीत् । तत्तु सत्यमॆव । परन्तु "बरह", "Itrans" इत्यादयः तन्त्रांशाः सन्ति यॆषु उट्टङ्कण-कार्यं तु तावत् कष्टं नास्ति । मयाप्यधुना "बरह"-साहाय्यॆनैव इदं ब्लाग् लिख्यतॆ । सम्पादकीय-सूचना तु लॆखनॆ आसीत् । परन्तु यॆ जनाः तत् पठन्ति तॆ सर्व ऎव चिन्तयन्ति यत् संस्कृतगणकयोः मिलनं कष्टसाध्यमिति । मम विचारः तु ऎवमस्ति - "कष्टमित्युक्तॆ कष्टम्" इति । microsoft-इत्यादिसंस्थाः एतत्-कार्यं सुलभं कृतवत्यः सन्ति । गृहात् बहिरागत्य पश्यन्तु जनाः । गणकॆ संस्कृतस्य उपयॊगं कर्तुं कष्टं नास्तीति त एव पश्यन्ति ।
गीता-जयन्ती-सन्दर्भॆ श्रीमद्भगवद्गीतां कर्णाटभाष्य-साहाय्यॆन पठितुम् आरब्धवान् । कर्णाटभाष्यं तु आधुनिक-कन्नड-गीताचार्यॆण श्रीगुण्डप्पवर्यॆण कृतमस्ति । ललितया भाषया मनोज्ञशैल्या च गुण्डप्पवर्यः गीतां विवृतवानस्ति । अत्र विशॆषांशः तु - "गीताग्रन्थस्य अधिकं तु लॊकजीवनॆ धर्मविषयॆ च प्रयोजनम् । एतत्प्रयॊजनं प्राप्य जीवनॆ अनुष्ठीय च परवस्तुविषयॆ जिज्ञासा कर्तव्या" इत्यस्ति । अन्येषु भाष्येषु आत्मज्ञानस्यैव औन्नत्यम् । अपि च धर्मविषयस्य गौणत्वम् । परं धर्मविचारं विना आत्मज्ञानपर्वतस्य दर्शनमॆव कष्टतरं भवतीति मम चिन्तनमपि । पूर्णं भाष्यं अधीत्य मित्रैः सह चर्चयित्वा च कन्नडॆ अस्मिन् ब्लागॆ एव मम विचारमण्डनं करिष्यामि ।
मम प्रकृतप्रश्नः तु अर्जुनविषादयोगॆ अस्ति । अर्जुनः वीरः धैर्यशाली चासीदिति सर्वविदितम् । परं तस्य विषादः युद्दभूमावॆव उत्पन्नः । प्रात्यक्षिकतायाः शक्तिरॆषा इति गुण्डप्पवर्यस्य विचारः । चिन्तनॆ कृतॆ एषः समीचीनः इति भासतॆ । अपि च अर्जुनस्य कारुण्यं प्राकृतं अविचारपूरितमासीत् । अस्य विषयद्वयस्यॊपरि मननं कुर्वन्नस्मि । किं च बुद्धिद्वारा तु विषयज्ञानमन्यत् । परं कृतॆ मननॆ यत् ज्ञानम् उदॆति तदॆव उत्कृष्टम् ।
॥ इति शम् ॥
No comments:
Post a Comment