Monday, October 10, 2005

पुनः स एव विचारः

भाषाया यस्या अपि उपयोगः अधिकं न क्रियतॆ तस्यां तु अभ्यासः न्यूनीभूत्वा तया भाषया संवहनमेव दुस्तरं भवति । तन्मास्त्वित्येवेदं लेखनं लिख्यतॆ मया । मम संस्कृतेन लिखितॆ पूर्वस्मिन् "ब्लाग्"-मध्येऽपि एष एव विचार आसीत् । तस्मादेव अस्य लेखनस्य शीर्षिका "पुनः स एव विचार" इत्यस्ति ।

तद्भवतु । इदानींतनदिवसेषु मया पठ्यमानो ग्रन्थः कविकुलगुरोः श्रीकालिदासस्य रघुवंशमहाकाव्यम् । ग्रन्थानम् उपोद्घातानि यदा दृष्टानि तत्र सर्वत्र कालिदासस्य नाम "श्री" इत्यभिदानशीर्षिकया विनाऽसीत् । तत् किमर्थम् इति न जानामि । माघस्य विचारे तु श्रीमाघः इत्यागच्छति । परन्तु न तथा कालिदासस्य विषये । मम विचारः एवमस्ति यत् कालिदासः कविकुलस्य गुरुरित्यस्मात् स सर्वॆभ्यः काव्यव्यासङ्गमग्नॆभ्योऽपि आत्मीयोऽस्ति । किं च यत आत्मीयेषु औपचारिकता न भवति कालिदासः अनल्पकाव्यश्रीयुक्तोऽपि श्रीनामशीर्षिकया विमुक्तोऽस्ति ।

अन्यत् कार्यमपि कुर्वन्नस्मि । तदस्ति विसर्गसन्धीनामभ्यासः। गते संवत्सरॆ एका चर्चा प्रवृत्ता मम चान्यसय मध्ये । तस्य संस्कृतपद्यरचनायां कृतश्रमस्य प्रश्न एवमासीत् । भगवद्गीतासु सर्वत्र "अर्जुन उवाच" इत्यागच्छति । परन्तु न "अर्जुनः उवाचे"-ति । तत् किमर्थमिति । तदा तु ऋजूत्तरं आवाभ्यां न ज्ञात्वैव चर्चा समाप्ता । तदनन्तरं किञ्चिद्व्याकरणाध्ययनसमयॆ ज्ञातं यत् "अर्जुन उवाच" इत्यत्र विसर्गसन्धिर्भवतीति । "अर्जुनः उवाच" इत्यस्मिन् पदसमूहॆ पूर्वपदः विसर्गसन्धिप्रक्रिययां स्वविसर्गं विहाय प्रक्रियासमाप्तिर्भवति । न जानामीदानीं यत् सा चर्चा मम परीक्षार्थमासीद्वेति ।

अन्यदप्यस्ति । संस्कृतभारत्याः यस्याः कायकर्तृष्वेकोऽस्मि पत्रिका सम्भाषण-सन्देश इति मासिका बेङ्गलूरुतः प्रकटिता वर्ततॆ । तत्र सुलभेन संस्कृतेन परं व्याकरणशुद्धेन सर्वाणि लेखनानि लिखितानि । परं सन्धयः पठनासौलभ्यकारणात् सर्वत्र पत्रिकयां न दृश्यन्तॆ । विशेषेण विसर्गसन्धीनां तु दर्शनमेव तत्र दुर्लभम् । तस्याः पाठकेषु एतस्य लेखनस्य (अत्रापि पश्यन्तु । तत्र तत्र सन्धयः न कृताः ) लेखकोऽप्यॆकः । स्वं सन्धिनिर्माणाभ्यासॆ नियुक्तं करवाणीत्येव लेखनमिदं लिखितम् ।

संस्कृत-ब्लाग्-लेखकाः जालविश्वे न दृश्यन्तॆ । पाठका अपि विरला इति भासतॆ । यदि केऽपि पठन्ति ममैतदरण्यरोदनं तर्हि ते कृपया प्रतिक्रियासुवाक्यैरेतं लेखकमनुगृह्णन्त्वित्याशे ।

अलं लेखनकार्येण । पुनर्मिलामः । सर्वे जनाः सुखिनो भवन्तु ।

3 comments:

Anonymous said...

ನಿಮ್ಮ ಬ್ಲಾಗಿನ RSS ಫೀಡ್ ನಲ್ಲಿ ಸಂಪೂರ್ಣ ಪೋಸ್ಟ್ ಬರುವ ಹಾಗೆ ಮಾಡಿದರೆ ಬಹಳ ಚೆನ್ನಾಗಿರುತ್ತದೆ. ಪ್ರತೀ ಬಾರಿ ನನ್ನ ಅಗ್ರಿಗೇಟರಿನಲ್ಲಿ ಟಾಪಿಕ್ ನೋಡಿ ಇಲ್ಲಿಗೆ ದೌಡಾಯಿಸಿ ಬರಬೇಕು :)

Unknown said...

ಒಂದು ಸಣ್ಣ ಸಹಾಯ ಬೇಕಲ್ಲ ಸರ್,
ನಾನು ಹೈಸ್ಕೂಲ್ ನಲ್ಲಿ ಚೂರು ಸಂಸ್ಕೃತ ಕಲಿತಿದ್ದೆ. ನಿಮ್ಮ ಬ್ಲಾಗ್ ಮತ್ತೆ ಸಂಸ್ಕೃತದ ಕಡೆ ತಿರುಗಲು ಪ್ರೇರಪಿಸಿದೆ. ಆದರೆ, ನಿಮ್ಮ ಬರಹ ನನಗೆ ಕ್ಲಿಷ್ಟವೆನಿಸುತ್ತಿದೆ. ನೀವು ಪದಗಳನ್ನು ಸ್ವಲ್ಪ ಬಿಡಿಸಿ ಬರೆದರೆ ನನ್ನಂತಹ noviceಗಳಿಗೆ ಸ್ವಲ್ಪ ಸಹಾಯವಾಗುತ್ತದೆ.

Hari said...

Excellent writing in simple, saral Sanskrit. I am really impressed and consider it my lucky day today to have been able to visit your blog. By the way, I have seen some Malayalam works where "Sri Kalidasa" was referred to. Still, it was nice, reading your views. May God bless you and all whom you love!