Friday, June 22, 2007

॥ सुभाषित-रत्न-भाण्डागारम् ॥

बेङ्गलूरु-नगरे चामराजपेट-स्थितम् आपणं वॆदान्ताभिधानं भारतीय-संस्कृतौ आस्कतेषु सुविख्यातम् । तत्र संस्कॄतग्रन्थानाम् अवलोकनं तु नितराम् प्रमोदावहम् । तर्क-व्याकरण-मीमांसा-वॆदान्त-शास्त्र-विषयकाः ग्रन्थाः तत्र तत्र स्थिताः रॊमाञ्चनमेव जनयन्ति । अन्यत्र कविवराणां माघ-बाण-भास-भारवि-कालिदासादीनां शिशुपालवध-शाकुन्तलादि-महाकाव्यानि रसभरितानि नम्रेषु तरुषु पक्व-फलानीव शोभन्ते । बालॊ यथा मिष्टानाम् आपणे "किं खादेयमि"-ति वक्तुमजानन् मुग्धॊ भवेत् तथैव मम स्थितिः ।

अस्यापणस्य समीपमॆव अन्यदापणं पूजाभिधानम् । तत्र न सर्वाणि पुस्तकानि लभ्यन्ते परं यानि लभ्यन्ते तानि न्यून-मूल्ययुतानि भवन्ति वॆदान्तापणापेक्षया । एतावत्पर्यन्तम् एताभ्यां न जाने कियत् धनं दत्तं कियन्ति च पुस्तकानि क्रीतानीति । तदस्तु ।

प्रौढशालायां पठनसमये सुभाषितानाम् अध्ययनं तु सर्वैस्संस्कृतच्छात्रैः क्रियते । अपि च पाठ्यपुस्तकॆषु यदा सुभाषितानां मूलं लिखितं तदा तु सामान्यतया "सुभाषित-रत्न-भाण्डागारम्" इति लिखितमासीत् । मया तु तदा चिन्तितं यत् भाण्डागारं नाम किमपि पुरातनं स्यादिति । एष एव ग्रन्थः पूजाभिधाने आपणे दृष्टः । तस्मिन् उपोद्घाते यद् दृष्टं तेन त्वहं चकिततां गतः ।

गते शतमाने निर्णयसागर-मुद्रणालयः उत्तमानां संस्कृतग्रन्थानां सुष्टु मुद्रणं कृत्वा सार्थकतामाप्नॊत् । तस्यैव कार्यमेतत् भाण्डागारमिति ज्ञात्वा त्वहं विस्मयावृतः । न केवलं तत् । मुद्र्णालयस्य विद्वद्भिरेव महाकार्यमेतत् कृतमिति तु ज्ञात्वा कृतज्ञतापूर्वक-नमःसुमाञ्जलिः मनसैव दत्ता ।

स ग्रन्थो महानिति वक्तुमपि हर्षमनुभवामि । तस्मिन् उपचतुःशतपृष्टात्मकॆ ग्रन्थे देवतास्तुतिभिरारभ्य नानाविषयकाः श्लॊकाः कतिपयेभ्यॊ ग्रन्थेभ्यो द्विरेफाः यथा नानापुष्पॆभ्यः मधु आहरन्ति तथैव आहृताः दृश्यन्ते । आङ्ग्लादि-लॊकभाषासु अनुवादः अस्मिन्नास्ति परं किञ्चित्संस्कृतज्ञातृभ्यो मादृशॆभ्यॊऽपि अन्वर्थानामायं ग्रन्थः ।

एतच्चिन्तयन् ग्रन्थक्रयम् अकरवम् । अस्य इदानीं चौखम्बामुद्रणालयेन पुनःप्रकाशितस्य मूल्यं त्रिशतं रूप्यकाणि परं त्रिदशालयसुखं तु निश्चप्रचं आप्नुवन्त्यस्य पाठकाः।

तस्योपरि श्लोकद्वयं रचयित्वा स्वानन्दं प्रकटीकृतम् मया लेखकेन ।

अहो भाग्यमहॊ भाग्यमहॊ भाग्यं ममैव यत् ।
महाकृतिरियं नित्यं काव्यास्वादाय कल्पते ।।

सुभाषितसुधाभाण्ड! काविवाग्रत्नमण्डित !
गृहमेतत्त्वयास्माकं सुधर्माम्बुधिसन्निभम् ॥

तेन युग्मेन एतत् लेखनं समाप्यते ।

॥ सर्वेभ्यः शुभं भूयात् ॥

3 comments:

Anonymous said...

Mahodaya:

Now I know the secret power behind your exquisite prose: your mastery of the devabhasha.

Tried Babel-fish but Samskrita is not featured there.

Wish there was an English/Kannada translation available, because the Samskrita skills of us lesser mortals are restricted to reciting of a few stotras only.

nIlagrIva said...

Namaste aram-mahodaya,
You're too kind in saying that my prose is exquisite. It is just your abhimAna that makes you see such things. Thank you.

There are differences in idiom between Skt. and Kannada. But my Skt. idiom is very similar to the Kannada one. In this piece, I've tried to write it closer to the Skt. one - but people should tell me.

Skt. upto a basic level such as mine is easy to learn. Listen-Talk-read-write is the method followed by samskrita Bharati (www.samskrita-bharati.org) and I agree with them there. But I would also like people to then go off on their own to develop their language ability.

Yaajushi said...

ji, bhavatah email sanketam jnatum shaknomi kim? mama naama yaajushi| mama sanketah yaajushi@gmail.com

bhavatah parichyam praptum ichchami| shakyate khalu?