संस्कृतं देवभाषा गीर्वाणभाषा चेति सुविख्याता । संस्कृतवाङ्मयं अनुपमं श्रॆष्ठं च इति तु सर्वविदितम् । तस्यां प्रहेलिका-सुभाषित-काव्येतिहास-वैद्यक-खगोल-रसायन-शास्त्रादयः सुष्ठु निबद्धाः । संस्कृतं तथा अनिर्दिष्टापि भारतदेशस्य राष्ट्रभाषा इव इति सर्वैः अङ्गीक्रियते स्म । संस्कृतविद्वांसः भूरि-गौरव-राजाश्रय-सम्पन्नाः तस्याः सॆवायै कटिबद्दाः आसन् । मृच्छकटिकादिषु नाटकॆषु दृष्टॆन सम्भाषणेन ज्ञायते यत् संस्क्रुतं न केवलं विद्वद्भाषासीत् परं लोकभाषाप्यासीदिति । एतस्मात् संस्कृतं जनादरप्राप्ता भाषा इति तु सुस्पष्टम् ।
तथापि गतद्विशतसंवत्सरॆषु कदापि संस्कृतस्य लोकभाषासु गणनं स्थगितम् । तस्य कारणनानि बहूनि स्युः । संस्कृतम् अस्य देशस्य संस्कृतिस्रॊतः, तस्मात् ताम् अभिभवभाजां(?) कुर्म इति मत्वा सर्वकारेण मतीययप्रज्ञया वा व्यवस्थापितरीत्या अस्यां आदरः न्यूनीकृतः स्यात् । प्राथमिक-संस्कृत-ज्ञान-विहीनाः संस्कृति-नद्याः संस्कृतात् दूरॆ स्थापिताः संस्कृतविमलजलम् अप्राप्य संस्कृतिहीनाः भवन्तः सन्ति । भारतीयसंस्कृतॆः औन्नत्यं वैशाल्यं च अदृष्ट्वा तां संस्कृतिमेव दूषयन्तः स्वदेशप्रतिकूलकारकविषयान् भूषयन्तः "बुद्दिजीवाः" सर्वत्र दृश्यन्ते।
तदस्तु इदानीम् । संस्कृतेन किम् आधुनिकसंवहनं शक्यते कर्तुमित्येव मम जिज्ञासा। प्रथमतः कथमेष प्रश्नः समुत्पन्नः? अहं तु आधुनिक-शिक्षण-पद्धतॆः छात्रः। तस्मात् न संस्कृतं मया प्रौढशालायाः पूर्वस्मिन् काले कदापि अभ्यस्तम् । अपि च संस्कृतं नाम कापि भाषास्ति यस्यां "रामः रामौ रामाः" इति रटनतत्पराः एव परिणतिमाप्नुवन्ति इति तु भावना उत्पादिता सार्वाकारीय-शिक्षण-पद्धत्या। तस्मात् संस्कृतकक्ष्यायाः बहिरागत्य कथम् इदानीमपि संस्कृते आसक्तोऽस्मि इति तु चित्रमेव! अन्येषां गतिस्तु शक्यते ऊहितुम् ।
सौभाग्यवशात् संस्कृतभारती तथा न चिन्तयति । तस्याः कार्यकर्तारः श्रवण-वदन-लेखन-द्वारा एव भाषायाः अध्ययनं कारयन्ति । तस्मात् मादृशा अपि संस्कृतेन विना कष्टं व्यवहर्तुं समर्था भवामः ।
एवं कृताध्ययनाभ्यासाः संस्कृतेन आधुनिकमपि संवहनं कर्तुमर्हन्ति । तत्र तत्र व्याकरणदॊषाः भवेयुः। परं लॊकभाषायाम् एवमेव भवति, भवितव्यमेव। सम्भाषणं विना किं कापि भाषा भाषायते? संस्कृतेन एव किमर्थमाधुनिकं संवहनं करणीयमिति केचन पृच्छॆयुः । उत्तरं मम एवमस्ति - "संस्कृतेन ये व्यवहरन्ति तेषां तु संस्कृतवाङ्मये प्रवेशः भवेत्। अनॆन काव्यकलातत्त्वशास्त्रादीनि तॆषां मनःपटलेषु स्थापितानि भवितुमर्हन्ति" इति । पुनः काव्यादीनां व्यासङ्गेन किं भविष्यति इति पृच्छतः प्रश्नस्य उत्तरं केन वा दातुं शक्यते ?
अतः मम विचारः एवमस्ति । आम् । संस्कृतेन आधुनिक-संवहनम् अवश्यं शक्यते कर्तुम् । मम गृहे मम पत्न्या सह संस्कृतेन एव व्यवहारः क्रियते, कोलाहलोऽपि !! ब्लाग् अपि लिख्यते ! मम सौभाग्यं यत् व्यास-वाल्मीकि-कविकुलगुर्वादीनां ग्रन्थान् विनानुवादं अवगमने यत्नं कर्तुं समर्थॊऽस्मीति ।
॥ जीयात् गीर्वाणभारती॥
1 comment:
उत्तमं लेखनम् लिखितं भवता ।
संस्कृतभाषा प्राप्तजनादरापि कथं इदानीं लोकभाषा नास्ति? संस्कृतभारती-सम्पर्कानन्तरं ज्ञातं मया यत् क्लिष्टता तस्य कारणं नास्ति इति । अतीव खेदकरम् यत् अन्धानां "बुद्धिजीवानां" दुरुद्देशैः ह्रियते अस्माकं संस्कृतिरिति ।
कथमपि भवतु नाम, संस्कृतभारत्याः कार्यकौशलं श्लाघनीयमस्ति । संस्कृतभारत्या सह मम सम्पर्कः नवमकक्ष्यायामभवत् । तदा शालायां "रामः रामौ रामाः" एव पठन्ती आसम् । द्वयोः सहयोगेन संस्कृतसम्भाषणशक्तिः, लेखनशक्तिश्च अभ्यवर्धतम् । अतः मम चिंतनं त्वस्ति यत् संस्कृतसंभाषणम् शिक्षितुं प्रौढशला-समयः एव सूक्तः इति, यतः तदा व्याकरणबॊधनमपि भवतीति !
व्यास-वाल्मीकि-कविकुलगुर्वादीनां भाषा अस्मदीयापि इति विचिंत्य मनः हर्षमनुभवति ।
Post a Comment