आबहोः कालात् न संस्कृतेन लिखितं मयेति सर्वदा मम संस्कृत्तलेखानाम् आरम्भे प्रलापः । एतस्मिन् लेखेऽपि स एव क्रमो मयाश्रितः । कारणं नाम समयाभाव इति तु असत् । यस्मात् कन्नडाङ्ग्लाभ्यां न सर्वदा परं तदा तदा लेखाः लिख्यन्ते मया । संस्कृतॆ विरला लेखा मम ।
कारणान्वेषणकाले तु भगवद्वचनम् एकं मनसि आगतम् । उच्यते खलु गीतासु -
अयुक्तः प्राकृतः स्तब्धः शठॊ नैकृतिकोऽलसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ (१८-२८)
प्रथमम् अस्य श्लोकस्य तावदर्थपरिशीलनम् । तदनन्तरम् विषयप्रसक्तिः। अर्थार्थं भगवन्तं भाष्यकारं श्रीशङ्करमवलम्बे ।
अयुक्तॊ नाम असमाहितः । यस्य मनसि समाधानं न विद्यते स अयुक्तः।
प्राकृतॊ नाम असंस्कृतबुद्धिः । यस्य बुद्धिः संस्कारविहीना स प्राकृतः।
स्तब्धः विनयविहीनः । छान्दॊग्यश्रुतौ श्वेतकॆतुः यदा द्वादशवर्षाध्ययनानन्तरं स्वगृहं प्रत्यागच्छति तदा ".... महामना अनूचानमानी स्तब्धॊ एयाय" इति तस्य विवरणं दृश्यते । तदनन्तरं पिता तस्य भगवदुद्दालको ब्रह्मतत्त्वं बॊधयतीति तु भिन्नं।
शठॊ वञ्चकः । नैकृतिकः अन्येषां वृत्तीनां जीविकानां च छेदकः ।
अलसो यत् करणीयमस्ति तद्विषयेऽपि यस्य अप्रवृत्तिः ।
विषादी विषादम् एव सदावलम्बते एष इति ।
दीर्घसूत्री अधुना कर्तव्यविषयेऽपि "श्वः कुर्मः । परश्वः अन्यदा वा कुर्मः" इति यस्य मतिः सः ।
एते गुणा अवगुणा वा यस्मिन् निवसन्ति स तामस इति उच्यते गीताचार्यॆण।
मम च पुर्वॊक्तावगुणानां च सम्बन्धॊ नास्तीति तु न वक्तुं शक्यते । यद्यपि नास्ति सर्वदा तमोगुणसम्पर्कः तदा तदा उष्ट्रवद् मनोमण्डपं पूर्णं प्रविशति । भाग्यवशात् तु नाहं सर्वावगुणदष्टः ।
कबीर-सद्भिरुक्तम् -
"कल् करे सो आज् कर् ।
आज् करे सो अब् ।" इति ।
मम विषये न तद्वद्द्भाग्यं ।
इदानींतनकार्यं वै प्रसृत्य दिवसेषु च।
करॊति पुनरन्यच्च दीर्घसूत्री स कथ्यते ।।
इति मे स्थितिः । ततः सोऽहं दीर्घसूत्री । सा च दीर्घसूत्रता अस्याश्च अग्रजः आलस्यं नाम मनसि मधुरायॆते । किमपि कर्तुमुद्युक्तमना यदाहं अन्यत् किमपि दृष्टिपथमायाति । यथा राज्ञः पुरतः नूतने वस्तुदर्शने मन्त्रिणः राजकार्यं त्यक्त्वा अपसरन्ति तथैव मनो मे प्रस्तुतकार्यं आपसारयित्वा नूतनं रुचिकरं प्रकाशयति ।
आलस्यं तदानींतने समये अमृतवत् आस्वाद्यं अतिमधुरं च भासते । तस्य विषस्वरूपस्तु गच्छता कालेनैव ज्ञायते । आलस्यममृतं विषम् - इति तु न व्यर्थोक्तिः।
तेन गोमुखव्याघ्रेण आलस्यामृतविषेण कतिपयेषु अवसरेषु बाधितोऽपि आलस्यपरं एव चित्तं मे सर्वदा इति तु चित्रम् । अस्माकं सुभाषितकाराः आलस्य-दीर्घसूत्रतायॊः विषये सदाजागृताः अन्यान् अप्रमत्तान् कर्तुम् उद्युक्ताः सन्ति ।
उदाहरणमेकम् अत्र विद्यते ।
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥
शड्दोषेभ्यो मुक्तिः प्रापणीया ऐश्वर्यं इच्छता मनुष्यॆण । के ते? निद्रा - अतिनिद्रा स्वनाशाय एव । तन्द्रा नाम अशक्तिः । भयसहितो पुरुषः न हि किञ्चित्कर्तुमर्हति । क्रोधोऽपि महान् शत्रुः यस्मात् पुरुषे कुपिते सति बुद्धिः मोहमायाति अनर्थसम्भावना च वर्धते । आलस्यं दीर्घसूत्रता च अस्माभिः गत ज्ञातौ विषयौ।
एवं बहूनि सन्त्युदारणानि संस्कृतवाङ्मये। उच्यते खलु "वचने का दरिद्रता?" इति । परं मूलप्रश्नः कथं एताभ्यां मुक्तिरित्येव । वचनसरांसि शतानि भवन्तु परं कार्यजलस्य बिन्दुरपि नास्ति चेत् किं तेन प्रयॊजनम् । मनोनिग्रह एव अत्र कर्तव्यः । कथं पुनरेषः?
समस्यापरिहारार्थं पुनः भगवान् गीताचार्य एव आश्रयणीयः।
असंशयं महाबाहॊ मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्यण च गृह्यते ॥ (६.३५)
जगद्गुरुणापि आङ्गीक्रियते यन्मनसो निग्रहः कष्टम् इति । परं उत्तररूपॆण शब्दद्वयं दीयते तेन । अभ्यासो वैराग्यश्च । अभ्यासो नाम निरन्तरं तदेकचित्तताप्रयत्नः। बुद्धिवाञ्चिते लक्ष्यॆ चित्तस्य एकाग्रताप्रयत्न एव अभ्यासः।
अभ्यासविषयॆ तत्र महत्कष्टम् अनुभूयते प्रायेण सर्वैरपि । उच्यते यद् एकविंशतिदिनपर्यन्तं यस्य कार्यस्य अभ्यासः क्रियते स वशवर्ती भवति इति । परं तावत् पर्यन्तं निरन्तरं तस्मिन् रन्तुं मनो न उत्सहते । बुद्द्यङ्कुशेन कथमपि मनोव्यालनियन्त्रणं करणीयम् ।
पुनश्च वैराग्यम् । वैराग्यं नाम लक्ष्यविरुद्दॆषु वस्तुषु सन्ततदोषदर्शनात् उत्पन्ना अनासक्तिः । अत्रापि बुद्दिकार्यम् अपेक्ष्यते ।
श्लॊकार्धेन भगवान् मनोनिग्रहं उपादिशत् । परं "अगच्छन् वैनतेयोऽपि पदमॆकं न गच्छति" इति श्लोकार्धे यथोक्तं तथैव अभ्यासवैराग्ययॊः अनुष्ठानादेव मनोनिग्रहः सिध्यति । "अभ्यासे चापि वैराग्ये अनुष्ठानशक्तिं दॆहि नो भगवन्" इति प्रार्थनं कर्तुम् शक्नुमः ।
श्रीमद्-विरोधिनामसंवत्सरस्य सर्वेभ्यो हार्दिकाः शुभाशयाः ।
अत्र कश्चिद्विशेषः । रोधो नाम नियमनं (आङ्ग्ले stop इव) । सामान्यतः विरोधो नाम विशेषः रोधः इति अर्थः स्वीक्रियते । यस्य विरोधः स विरोधी । कस्मात् विरोधीति संवत्सरस्य अमङ्गलं नाम? न तथा यस्मादत्र शक्यते चमत्कर्तुम् । विरॊधः इत्यत्र विगतः रोधः इति अर्थ्यते चेत् रोधो यस्मिन् संवत्सरे नास्ति स विरोधिसंवत्सरः इति शक्यते वक्तुम् । तस्मात् अयं श्रीमद्विरोधिसंवत्सरो नो द्वितीयार्थद्योतनो भवेदिति काङ्क्षन् विरमामि ।
॥ इति शम् ॥
1 comment:
Pinnacle Hotel Casino & Spa, Atlantic City - MapyRO
Hotel deals on Pinnacle Hotel Casino & Spa in Atlantic City (New Jersey) with 경기도 출장마사지 MapyR for 거제 출장샵 sale. Find 계룡 출장안마 low 화성 출장안마 everyday 경상북도 출장안마 prices and buy online for delivery or
Post a Comment